॥ श्री युगलाष्टकम् ॥ ** कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 1 ॥ ** कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 2 ॥ ** कृष्णप्राणमयी राधा राधाप्राणमयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 3 ॥ ** कृष्णद्रवामयी राधा राधाद्रवामयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 4 ॥ ** कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 5 ॥ ** कृष्णचिन्तास्थिता राधा राधाचिन्तास्थितो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 6 ॥ ** नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 7 ॥ ** वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ 8 ॥ ** ॥ श्री युगलाष्टकम् सम्पूर्ण ॥ ***** ॥ Shree Yugalaashtakam ॥ ** Krishnapremamayee Raadha Raadhaaprem Mayo Harih. Jeevanen Dhanen Nityam Raadhaakrishnagathirmam ॥ 1 ॥ ** Krishnasya Dravinam Raadha Raadhaayaah Dravinam Harih. Jeevanen Dhanen Nityam Raadhaakrishnagathirmam ॥ 2 ॥ ** Kri...