श्रीगणेशकवचम् // Shri Ganesh Kavacham // Shri Ganesh Kavacham in Hindi in Sanskrit // Lyrics in Hindi // Lyrics in English
श्रीगणेशकवचम् // Shri Ganesh Kavacham // Shri Ganesh Kavacham in Hindi in Sanskrit // Lyrics in Hindi // Lyrics in English श्रीगणेशकवचम् श्रीगणेशाय नमः ॥ ।। गौर्युवाच ।। एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम।।1।। ***** दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि ।।2 ।। ***** ।। मुनिरुवाच ।। ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ।।3 ।। ***** विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ।।4 ।। ***** ललाटं कश्यपः पातु भृयुगं तु महोदरः । नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ।।5 ।। ***** जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः। वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ।।6 ।। ***** श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः। गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ।।7 ।। ***** स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविना...