रविवार, 13 नवंबर 2022

श्रीकाशीविश्वनाथस्तुतिः // Shri Kashi Vishwanath Stutih

श्रीकाशीविश्वनाथस्तुतिः // Shri Kashi Vishwanath Stutih // Lyrics in Hindi // Lyrics in English



दुर्गाधीशो द्रुतिज्ञो द्रुतिनुतिविषयो दूरदृष्टिर्दुरीशो

दिव्यादिव्यैकराध्यो द्रुतिचरविषयो दूरवीक्षो दरिद्रः ।

देवैः सङ्कीर्तनीयो दलितदलदयादानदीक्षैकनिष्ठो

दानी दीनार्तिहारी भवदवदहनो दीयतां दृष्टिवृष्टिः ॥ 1॥


क्षेत्रज्ञः क्षेत्रनिष्ठः क्षयकलितकलः क्षात्रवर्गैकसेव्यः

क्षेत्राधीशोऽक्षरात्मा क्षितिप्रथिकरणः क्षालितः क्षेत्रदृश्यः ।

क्षोण्या क्षीणोऽक्षरज्ञो क्षरपृथुकलितः क्षीणवीणैकगेयः

क्षौरः क्षोणीध्रवर्ण्यः क्षयतु मम बलक्षीणतां सक्षणं सः ॥ 2॥


क्रूरः क्रूरैककर्मा कलितकलकलैः कीर्तनीयः कृतिज्ञः

कालः कालैककालो विकलितकर्णः कारणाक्रान्तकीर्तिः ।

कोपः कोपेऽप्यकुप्यन् कुपितकरकराघातकीलः कृतान्तः

कालव्यालालिमालः कलयतु कुशलं वः करालः कृपालुः ॥ 3॥


गौरी स्निह्यतु मोदतां गणपतिः शुण्डामृतं वर्षताद्

नन्दीशः शुभवृष्टिमावितनुतां श्रीमान् गणाधीश्वरः ।

वायुः सान्द्रसुखावहः प्रवहतां देवाः समृद्धादयाः

सम्पूर्तिं दधतां सुखस्य नितरां विश्वेश्वरः प्रीयताम् ॥ 4॥


श्रीविश्वेश्वरमन्दिरं प्रविलसेत् सम्पूर्णसिद्धं शुभं

पुष्टं तुष्टसुखाकरं प्रभवतां सम्मोदमोदावहम् ।

एतद्दर्शनकामना जगति सञ्जायेत सन्निन्दतः

सर्वेषां भगवान् महेश्वरकृपापूर्णो निरीक्षेत नः ॥ 5॥


इति काशीपीठाधीश्वरः श्रीमहेश्वरानन्दः विरचिता

श्रीकाशीविश्वनाथस्तुतिः समाप्ता ।

*****

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

हमें खुशी होगी यदि आप हमारे टेलीग्राम और यूट्यूब चैनल से भी जुड़ेंगे। आभार