श्रीकाशीविश्वनाथस्तुतिः // Shri Kashi Vishwanath Stutih // Lyrics in Hindi // Lyrics in English दुर्गाधीशो द्रुतिज्ञो द्रुतिनुतिविषयो दूरदृष्टिर्दुरीशो दिव्यादिव्यैकराध्यो द्रुतिचरविषयो दूरवीक्षो दरिद्रः । देवैः सङ्कीर्तनीयो दलितदलदयादानदीक्षैकनिष्ठो दानी दीनार्तिहारी भवदवदहनो दीयतां दृष्टिवृष्टिः ॥ 1॥ क्षेत्रज्ञः क्षेत्रनिष्ठः क्षयकलितकलः क्षात्रवर्गैकसेव्यः क्षेत्राधीशोऽक्षरात्मा क्षितिप्रथिकरणः क्षालितः क्षेत्रदृश्यः । क्षोण्या क्षीणोऽक्षरज्ञो क्षरपृथुकलितः क्षीणवीणैकगेयः क्षौरः क्षोणीध्रवर्ण्यः क्षयतु मम बलक्षीणतां सक्षणं सः ॥ 2॥ क्रूरः क्रूरैककर्मा कलितकलकलैः कीर्तनीयः कृतिज्ञः कालः कालैककालो विकलितकर्णः कारणाक्रान्तकीर्तिः । कोपः कोपेऽप्यकुप्यन् कुपितकरकराघातकीलः कृतान्तः कालव्यालालिमालः कलयतु कुशलं वः करालः कृपालुः ॥ 3॥ गौरी स्निह्यतु मोदतां गणपतिः शुण्डामृतं वर्षताद् नन्दीशः शुभवृष्टिमावितनुतां श्रीमान् गणाधीश्वरः । वायुः सान्द्रसुखावहः प्रवहतां देवाः समृद्धादयाः सम्पूर्तिं दधतां सुखस्य नितरां विश्वेश्वरः प्रीयताम् ॥ 4॥ श्रीविश्वेश्वरमन्दिरं प्रविलसेत् सम्पूर्णसिद्धं शुभं पुष्ट...